|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.38. अध्यायः 038
अथानुगीतापर्व-2
Mahabharata - Ashvamedhika Parva - Chapter Topics
ब्रह्मण महर्षीन्प्रति रजोगुणकार्यनिरूपणम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्रह्मोवाच।
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः।
निबोधत महाभागा गुणवृत्तं च राजसम्॥ 14-38-1(93414)
संतापो रूपमायासः सुखदुःखे हिमातपौ।
ऐश्वर्यं विग्रहः सिद्धिर्हेतुवादोऽरतिः क्षमा॥ 14-38-2(93415)
बलं शौर्यं मदो रोषो व्यायामकलहावपि।
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम्॥ 14-38-3(93416)
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च।
निकृन्त च्छिन्धि भिन्धीति परवर्मावकर्तनम्॥ 14-38-4(93417)
उग्रं दारुणमाक्रोशः परवित्तानुरागिता।
लोकचिन्ताऽनुचिन्ता च मत्सरः परिभाषणम्॥ 14-38-5(93418)
वृथाशास्त्रं मृषावादो विकल्पपरिभाषणम्।
निन्दा स्तुतिः प्रशंसा च प्रतापः परिधर्षणम्॥ 14-38-6(93419)
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः॥
व्यूहो नयः प्रमादश्च परिवादः परिग्रहः॥ 14-38-7(93420)
संस्कारा ये च लोकेषु प्रवर्तन्ते पृथक्पृथक्।
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च॥ 14-38-8(93421)
संतापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये।
प्रधानमाशीर्युक्तं च सततं मे भवत्विति॥ 14-38-9(93422)
स्वाहाकारो नमस्कारः स्वधाकारो वषट्क्रिया।
याजनाध्यापने चोभे यजनाध्ययने अपि॥ 14-38-10(93423)
दानं प्रतिग्रहश्चैव प्रायश्चित्तानि मङ्गलम्।
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः॥ 14-38-11(93424)
अभिद्रोहस्तथा माया निकृतिर्मान एव च।
स्तैन्यं हिंसा जुगुप्सा च परितापः प्रजागरः॥ 14-38-12(93425)
दम्भो दर्पोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम्।
द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये॥ 14-38-13(93426)
नृत्यवादित्रगीतानां प्रसङ्गा ये च केचन।
सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः॥ 14-38-14(93427)
भूतभव्यभविष्याणां भावानां भुवि भावनाः।
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि॥ 14-38-15(93428)
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः।
अर्वाक्स्रोतस इत्येते मनुष्या रजसा वृताः॥ 14-38-16(93429)
अस्मिँलोके प्रमोदन्ते जायमानाः पुनःपनः।
प्रेत्यभाविकमीहन्ते हलौकिकमेव च।
ददति प्रतिगृह्णन्ति तर्पयन्त्यथ जुह्वति॥ 14-38-17(93430)
रजोगुणा वो बहुधानुकीर्तिता
यथावदुक्तं गुणवृत्तमेव च।
नरोपि यो वेद गुणानिमान्सदा
स राजसैः सर्वगुणैर्विमुच्यते॥ ॥ 14-38-18(93431)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टत्रिंशोऽध्यायः॥ 38 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-38-2 संघातो रूपमायास इति क.ट.थ.पाठः॥ 7-38-5 उग्रं निष्टुरं दारुणं हिंस्रत्वम्॥ 7-38-6 परिभाषणं धिक्कृत्य भाषणम्॥ 7-38-7 व्यूहः व्यवहाररचनाकौशलम्॥ 7-38-8 शरणेषु रक्षितृषु॥ 7-38-9 अप्रत्ययः अविश्वासः॥ 7-38-12 परितापः स्वजनकैवल्यनिमित्तो दाहः। पाठान्तरे परिवादः सर्वनिन्दा॥ 7-38-14 प्रसङ्गा येन केनचिदिति क.थ.पाठः॥ 7-38-16 अर्वाक् स्वर्गादधः भूमेरुपरि स्रोतः प्रवाहो येषां ते तथा॥ 7-38-17 प्रेत्यभाविकं जन्मान्तरीयं कुशलम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|